|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.7. अध्यायः 007
Mahabharata - Drona Parva - Chapter Topics
दुर्योधनेन द्रोणस्य सैनापत्येऽभिषेचनम्॥ 1 ॥ द्रोणयुद्धवर्णनम्॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
द्रोण उवाच। 7-1-0x(4277)(44824)
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम्।
त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि च॥ 7-1-1(44825)
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः।
चिकीर्षुस्तानहं सर्वान्योधयिष्यामि पाण्डवान्॥ 7-1-2(44826)
पार्षतं तु रणे राजन्न हनिष्ये कथञ्चन।
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः॥ 7-1-3(44827)
योधयिष्यामि सैन्यानि नाशयन्सर्वसोमकान्।
न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः॥ 7-1-4(44828)
सञ्जय उवाच। 7-1-5x(4278)
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः।
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा॥ 7-1-5(44829)
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः।
`स्वस्तिवादरवैश्चान्यैः श्लक्ष्णैश्चान्यैर्मनोरमैः'।
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः॥ 7-1-6(44830)
ततो वादित्रघोषेण शङ्खानां च महास्वनैः।
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा॥ 7-1-7(44831)
ततः पुण्याहघोषेण साशीर्वादस्वनेन च।
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम्॥ 7-1-8(44832)
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा।
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान्॥ 7-1-9(44833)
सञ्जय उवाच। 7-1-10x(4279)
सैनापत्यं तु संप्राप्य भारद्वाजो महारथः।
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह॥ 7-1-10(44834)
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः।
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः॥ 7-1-11(44835)
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः।
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः॥ 7-1-12(44836)
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः।
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन्॥ 7-1-13(44837)
तेषां प्रपक्षाः काम्भोजाः सुदक्षिणपुस्सराः।
ययुरश्चैर्महावेगैः शकाश्च यवनैः सह॥ 7-1-14(44838)
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यमालवाः।
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह॥ 7-1-15(44839)
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः।
नवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः॥ 7-1-16(44840)
हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह।
प्रवरः सर्वयोधानां बलेषु बलमादधम्॥ 7-1-17(44841)
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्।
तस्य दीप्तो महाकायः स्वान्यनीकानिहर्षयन्॥ 7-1-18(44842)
हस्तिकक्ष्यो गहाकेतुर्बभौ सूर्यसमद्युतिः।
न भीष्मव्यसनं कश्चिदृष्ट्वा कर्णममन्यत॥ 7-1-19(44843)
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह।
हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः॥ 7-1-20(44844)
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः।
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान्॥ 7-1-21(44845)
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्।
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना॥ 7-1-22(44846)
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे।
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशांपते॥ 7-1-23(44847)
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः।
अस्माकं शकटव्यूहों द्रोणेन विहितोऽभवत्॥ 7-1-24(44848)
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम्।
प्रीयमाणेन विहितो धर्मराजेन भारत॥ 7-1-25(44849)
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ।
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ॥ 7-1-26(44850)
ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम्।
आदित्यपथगः केतुः पार्थस्यामिततेजसः॥ 7-1-27(44851)
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः।
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम्॥ 7-1-28(44852)
दीप्यन्दृश्येत हि तथा केतुः सर्वत्र धीमतः।
योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्॥ 7-1-29(44853)
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्।
चत्वार्येतानि तेजाञ्सि वहञ्श्वेतहयो रथः॥ 7-1-30(44854)
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्।
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ॥ 7-1-31(44855)
तावकानां मुखे कर्णः परेषां च धनंजयः।
ततो जयाभिसंरब्धौ परस्परवधैषिणौ॥ 7-1-32(44856)
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ।
ततः प्रयाते सहसा भारद्वाजे महारथे॥ 7-1-33(44857)
सिंहनादेन घोरेण वसुधा समकम्पत।
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम्॥ 7-1-34(44858)
वातोद्भूतं रजस्तीव्रं कौशेयनिकरोपमम्।
ववर्ष द्यौरनभ्राऽपि मांसास्थिरुधिराण्युत॥ 7-1-35(44859)
गृध्राः श्येना बकाः कङ्का वायसाश्च सहस्रशः।
उपर्युपरि सेनां ते तदा पर्यपतन्नृप॥ 7-1-36(44860)
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान्।
अकार्षुरपसव्यं च बहुशः पृतनां तव॥ 7-1-37(44861)
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्।
अपतद्दीप्यमाना च सनिर्घाता सकम्पना॥ 7-1-38(44862)
उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः।
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्॥ 7-1-39(44863)
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ।
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः।
उत्पाता युधि वीराणां जीवितक्षयकारिणः॥ 7-1-40(44864)
ततः प्रववृते युद्धं परस्परवधैषिणाम्।
कुरुपाण्डवसैन्यानां शब्देनापूरयज्जगत्॥ 7-1-41(44865)
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह।
अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः॥ 7-1-42(44866)
स पाण्डवानां महतीं महेष्वासो महाद्युतिः।
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः॥ 7-1-43(44867)
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सहसृञ्जयैः।
प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक्॥ 7-1-44(44868)
विक्षोभ्यमाणआ द्रोणेन भिद्यमाना महाचमूः।
व्यशीर्यत सपाञ्चाला वातेनेव वलाहकाः॥ 7-1-45(44869)
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे।
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्॥ 7-1-46(44870)
ते वध्यमाना द्रोणेन वासवेनेव दानवाः।
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः॥ 7-1-47(44871)
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः।
अभिनच्छरवर्षेण द्रोणानीकमनेकधा॥ 7-1-48(44872)
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः।
सन्निवार्य ततः सर्वान्कुरूनप्यवधीद्बली॥ 7-1-49(44873)
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे।
स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत्॥ 7-1-50(44874)
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति।
मघवान्समभिक्रुद्धः सहसा दानवानिव॥ 7-1-51(44875)
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः।
पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः॥ 7-1-52(44876)
तथा पर्यपतद्रोणः पाण्डवानां बले बली।
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्॥ 7-1-53(44877)
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम्।
स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम्॥ ॥ 7-1-54(44878)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि
Mahabharata - Drona Parva - Chapter Footnotes
5-1-9 सुभगानर्तितैः सौभाग्यवतीनृत्तैः॥ 5-1-27 आदित्यपथगः आकाशगः॥ 5-1-54 ह्लादनं योद्भुरानन्दजननम्॥ 5-1-7 सप्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|